________________
* श्रीगणेशायनमः
* ॐ नमोभगवते वासुदेवाय
स्कन्दपुराणस्थब्रह्मखण्डद्वितीयं धर्मारिण्यमाहात्म्यम्
प्रथमोऽध्यायः धर्मराजेनब्रह्मसंसदिगमनवर्णनम्
तु संसृतिवारिधि त्रिजगतां नौर्नाम यस्य प्रभो-
येनेदं सकलं विभाति सततं जातं स्थितं संसृतम् । यश्चैतन्यघनप्रमाणविधुरो वेदान्तवेद्यो विभु-
स्तं वन्दे सहजप्रकाशममलं श्रीरामचन्द्रं परम् ॥ १ ॥
दाराः पुत्रा धनं वा परिजनसहितो बन्धुवर्गः प्रियो वा, माता भ्राता पिता वा श्वशुरकुलजना भृत्य ऐश्वर्य्यवित्ते
विद्या रूपं विमलभवनं यौवनं यौवतं वा,
सर्वं व्यर्थं मरणसमये धर्म एकः सहायः ॥ २ ॥
नैमिषे निमिषक्षेत्रे ऋषयः शौनकादयः । सत्रं स्वर्गाय लोकाय सहस्रसममासत ॥